
UTET 2021 – 2 (Junior Level)
SET – D
Exam Date :– 24th March 202
भाग – III – भाषा – II : संस्कृत
(Part – III – Language – II : Sanskrit)
निर्देश: – अधोलिखितं गद्याधारितानां प्रश्नानां (प्रश्नसंख्या 61 – 65 पर्यन्तान्) समुचितानि उत्तराणि चिनुत –
प्राचीनकालस्य कथा अस्ति। एकस्मिन् आश्रमे ऋषिः धौम्यः शिष्यैः सह वसति स्म। ते शिष्याः आश्रमं निकषा कृषिक्षेत्रेषु कृषिकार्यमपि कुर्वन्ति स्म। तेषु एकः अतीव सरलः बालः आसीत् तस्य नाम आरुणिः आसीत्। वर्षाकाले एकस्मिन् दिवसे प्रचण्डा वृष्टिरभवत्। धान्यक्षेत्रे धान्यरोपणार्थं जलं रक्षणीयमासीत्। गुरुः धौम्यः आरुणिम् आहूय अवदत् ‘आरुणे! धान्यक्षेत्रं गच्छ। तत्र जलस्य रक्षण कुरु।’
एकस्मिन् स्थले क्षेत्रबन्धः भग्नः आसीत् । भग्ने क्षेत्रबन्धे आरुणिः मृत्तिका स्थापितवान्, परन्तु त्वरितमेव उग्रेण जलवेगेन मृत्तिका प्रवाहिता। आरुणिः वारं-वारं क्षेत्रबन्धे मृत्तिकां अक्षिपत् परन्तु सकलाः प्रयासाः व्यर्थाः अभवन्। आरुणिः एकमुपायं चिन्तितवान्- ‘क्षेत्रबन्धेऽस्मिन् स्वयमेव शयित्वा जलरोधं करिष्यामि।’ सः तस्मिन् भग्ने क्षेत्रबन्धे कर्दमाक्ते जले लम्बमानः अतिष्ठेत्। जलस्य प्रवाहः रुद्धः । यद्यपि शैत्यं बाधते स्म तथापि धान्यक्षेत्रस्य रक्षणाय आरुणिः तत्रैव लम्बमानः अतिष्ठत् ।
61. तेषु कः नामकः शिष्यः आसीत् –
(A) धौम्यः
(B) आरुणिः
(C) सरलः
(D) सर्वम् एव
Answer – (B)
62. ‘आश्रमं निकषा’ अत्र आश्रमं पदे का विभक्तिः अस्ति –
(A) प्रथमा विभक्तिः
(B) तृतीया विभक्तिः
(C) चतुर्था विभक्तिः
(D) द्वितीया विभक्तिः
Answer – (D)
63. ‘अतिष्ठत्’ इत्यस्मिन् मूल धातुः अस्ति –
(A) अत्
(B) तिष्ठ
(C) अस्
(D) स्था
Answer – (D)
64. ‘निकषा’ शब्दस्य विलोमार्थक पदमस्ति
(A) अदूरम्
(B) निकटम्
(C) समीपम्
(D) दूरम्
Answer – (D)
65. ‘कर्दमाक्ते’ हत्यस्मिन् पदे ‘कर्दमः’ शब्दस्य कोऽर्थः ?
(A) कीचड़
(B) घुटना
(C) कमर
(D) कोऽपि न
Answer – (A)
निदेशः – अधोलिखितं गद्याधारितानां प्रश्नानां (प्रश्न 66 – 70 पर्यन्तान्) समुचितानि उत्तराणि चिनुत –
कालोऽहम्। अहं खलु कालः। विश्व आत्माऽहम्। कलयामि गणयामि जगतः । प्रमाणम्। सततं चक्रवत् परिवर्तमानः भूतं वर्तमा भविष्यदपि च वीक्ष्यमाणः अहमेव साक्षी जा उत्पत्तेः विकासस्य प्रलयस्य च। इदं जगत त – पुनः जायते विलीयते च परमहं सर्वदा विद्यमानोस सर्वं क्रियाकलापं पश्यामि। अहो! किं जानीथ या कियती प्राचीना इयं सृष्टिः। नैव, तर्हि शृणुत ध्यानेन।
“कृतयुगं त्रेतायुगं द्वापरयुगं कलियुगञ्चेति चत्वारि युगानि। चतुर्णां युगानां समूहः एव महायुगम। एकसप्तति महायुगानाम् एकं मन्वन्तरम् । चतुर्दशमन्वन्तराणां समूहः कल्पः। एकः कल्प एव ब्रह्मणः एकं दिनं मन्यते। ब्रह्मणः आयुः शतं वर्षाणि।” अहो! श्रूयते शंखध्वनिः! युगादिपर्वणि कस्मिंश्चिद् गृहे नूतनसंवत्सरस्य अभिनन्दन – समारोह आयोज्यते।
66. अत्र ‘विश्वात्मा’ कः अस्ति?
(A) ब्राह्मणः
(B) कालः
(C) जगत्
(D) ब्रह्मा
Answer – (B)
67. कल्पः केषां समूहोऽस्ति?
(A) युगानां
(B) चतुर्दशमन्वन्तराणाम्
(C) कल्पस्य
(D) मन्वन्तरणाम्
Answer – (B)
68. ब्रह्मणः आयु कति वर्षाणि?
(A) शतम्
(B) चतुर्दश
(C) पञ्च
(D) एकं दिनम्
Answer – (A)
69. ‘जानीथ’ इत्यस्मिन् पदे धातु-लकार-पुरूष-वचनञ्च अस्ति –
(A) ज्ञा धातु, लोट् लकार,मध्यम पुरूष, बहुवचन
(B) ज्ञा धातु, लट् लकार, मध्यम पुरूष, एकवचन
(C) ज्ञा धातु, लृट् लकार, मध्यम पुरूष, बहुवचन
(D) ज्ञा धातु, लट् लकार, मध्यम पुरुष, बहुवचन
Answer – (D)
70. ‘चक्रवत्’ कः परिवर्तते?
(A) कालः
(B) कल्पः
(C) सृष्टिः
(D) जगतः
Answer – (A)
Be the first to comment